Friday, 10 June 2016

अध्यारोपापवादन्यायः



लौकिकन्यायः-6
अध्यारोपापवादन्यायः
विकी-
            अध्यारोपः नाम एकस्मिन् वस्तुनि अन्यस्य वस्तुनः आरोपणम् । यदा तत् आरोपणं दूरीभूय वस्तुनः यथार्थज्ञानं भवति तदा तं वेदान्ते अपवादं भणन्ति । यथार्थज्ञानेन भ्रमः अपगच्छति । ब्रह्मपदस्य विवेचनसमये वेदान्ते अस्य न्यायस्य उपयोगः क्रियते - यथा -वस्तुन्यवस्त्वारोपः अध्यारोपः । यथा असर्पभूतायां रज्जौ सर्पारोपः । अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववद् वस्तुविवर्तस्य अवस्तुनः अज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम् इति । ताभ्याम् अध्यारोपापवादाभ्यां निष्प्रपञ्चं सच्चिदानन्दानन्ताद्वयं ब्रह्म प्रपञ्च्यते विस्तीर्यते इति भावः । तथैव सर्परज्जुन्यायः ।

लौकिकन्यायाञ्जलिः-
    The method of illusory attribution followed by its withdrawal. This nyaya belongs entirely to the Vedantists.

अधिकरण-सिद्धान्त-न्यायः

लौकिकन्यायः-5
अधिकरण-सिद्धान्त-न्यायः
विकी- 
एकस्मिन् अधिकरणे विषयः, विशयः (संशयः), पूर्वपक्षः, उत्तरपक्षः निर्णयः च इति पञ्चानाम् अङानां साहाय्येन कस्यचन विषिष्टस्य सिद्धान्तस्य स्थापनं भवति ।  अधिकरणं नाम यमर्थमधिकृत्य प्रवर्तते कर्ता ।’ (चरकसंहिता)  तस्य सिद्धान्तस्य अवगमनाय यदा अपरः सिद्धान्तः आवश्यकः भवति तत् सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । यस्य विषये किमपि कथितं भवति तत् अधिकरणम् ।  यमर्थमधिकृत्य उच्यते तत् अधिकरणम्’ (कौटिलीय- अर्थशास्त्रम्)

लौकिकन्यायाञ्जलिः-
A truth or conclusion which implies another truth or conclusion .

अजातपुत्र-नामोत्कीर्तन-न्यायः



लौकिकन्यायः-4
अजातपुत्र-नामोत्कीर्तन-न्यायः
विकी-
अपत्यस्य जन्मनः पूर्वमेव तस्य गुणानां स्तुतिः किंवा तस्य तस्य अपत्यस्य नामकरणम् इत्यादिकं क्वचित् त्वरावशात् केचन कुर्वन्ति । एतादृशस्य व्यर्थकर्मणः निर्देशार्थम् अस्य न्यायस्य प्रयोगः क्रियते ।

लौकिकन्यायाञ्जलिः-
Proclaiming the name of a son before he is born. That is, counting your chickens before they are hatched.