Friday, 10 June 2016

आकाश-मुष्टि-हनन-न्यायः



लौकिकन्यायः-15
आकाश-मुष्टि-हनन-न्यायः
विकी-
मुष्टिभिः आकाशस्य प्रहारं कुर्वन्ति चेत् व्यर्थ भवति खलु तथा निष्फलं प्रयत्नं सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । यस्तन्तूननुपादाय तुरीमात्रपरिग्रहात् । पटं कर्तु समीहते स हन्याद् व्योम मुष्टिभिः ॥ (जैमिनीयप्रकरणं, सर्वदर्शनसंग्रहे )

लौकिकन्यायाञ्जलिः-
The maxim of striking the sky with ones fist. A vain attempt at an impossibility.

अस्नेह-दीप-न्यायः



लौकिकन्यायः-14
अस्नेह-दीप-न्यायः

विकी-
शुष्केण नीरसेन वा भावेन स्थितिः । यस्य दीपस्य तैलम् एव नास्ति सः दीपः गतप्रायः, तस्य दीप इति केवलं नामधेयम् । एतत् द्योतयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।  अस्योदाहरणम्- तत्र वर्षसहस्त्राणि निर्विकल्पसमाधिना । दश स्थित्वा शशामासावात्मनि अस्नेहदीपवत् ॥

लौकिकन्यायाञ्जलिः-
The simile of a Lamp without oil [that is, from which the oil has burnt out].

अर्ध-जरतीय-न्यायः



लौकिकन्यायः-13
अर्ध-जरतीय-न्यायः

विकी-
अर्धवृद्धायाः महिलायाः दृष्टान्तेन अयं न्यायः प्रवर्तते । वृद्धा कीदृशी वा भवतु तस्याः पतिः तां तस्याः संपूर्णशरीरेणा सह स्वकीयां मन्यते । तस्याः मुखपर्यन्तम् एव स्वकीयमिति इतरत् शरीरं स्वीयं नास्तीति सः न तिरस्करोति । केषाञ्चन अङ्गानां स्वस्य अनुकूलतायाः अनुसारेण स्वीकरणम् अन्येषां निराकरणमितिम् न शक्यते । कोऽपि विषयः पूर्णतया त्यक्तव्यः किंवा पूर्णरुपेण स्वीकर्तव्यः । आगमप्रमाणेन ईश्वरस्य सिद्धिः भवति परन्तु बुद्धस्य वचनेन तस्य सिद्धिः न भवति इति उभयमपि स्वीकर्तुं न शक्यते । किमपि एकमेव मतं स्वीकरणीयं भवति । (सा. २५५) द्रष्टव्यम्- विकारार्थे मयटप्रवाहे सति आनन्दस्य एवाकस्माद् अर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं वा आश्रीयत इति । (ब्रह्मसूत्रशाङ्करभाष्यम् १-१-१९,१-२-८)

लौकिकन्यायाञ्जलिः-
The maxim of the semi-senile woman. It is very difficult to fix on the exact force of this saying. It seems to imply indefiniteness, half-and-half-ness, the being neither one thing nor the other.