लौकिकन्यायाः
काकतालीयन्यायः
विकी-
यदा काचिद् घटना अनपेक्षितरीत्या घटते (जायते) तदा तस्याः सूचनार्थम् अस्य
न्यायस्य प्रयोगः क्रियते । काकः उपविष्टः तालफलं च पतितम् इति एकस्मिन् काले अनपेक्षितरीत्या
जातं चेत् तयोः कारण-कार्य संबन्धः न भवति । आप्टेमहाशयस्य कोशे अस्य न्यायस्य पञ्च
विवरणानि दत्तानि यथा – तालवृक्षस्य अधः काकः उपविष्टः अकस्मात् तस्य शिरसि तालफलं पतितम् –
इति यादृच्छिकं घटनाद्वयम् । काकः तालवृक्षस्य शाखाग्रे उपविशति । तदा
शाखाग्रेण सह सः वृक्षः पतितः चेत् काकस्य भारेण एव वृक्षः पतितः इति कथनं सर्वथा अयोग्यम्
एव । तालपतनं काकस्य उपवेशनम् इति द्वयमपि यादृच्छिकमेव । काकस्य उपवेशनं तालपतनमिति
घटनाद्वयं एकस्मिन् समये वेगेन अलक्षितक्रमेण जातम् । काकः यदा तालवृक्षस्य समीपं गतः
तदैव तालफलं तदुपरि पतितम् तेन काकः प्रहारं प्राप्तवान् । कश्चन मनुजः वेगेन करतल-
ताडनं कुर्वन् अस्ति तदा कश्चन काकः तस्य हस्तयोर्मध्ये गतः प्रहारं प्राप्तवान्-इति
सूच्यते । उदाहरणार्थं तालः नाम करतलयोः शब्दजनकः संयोगः । तस्मिन् क्रियमाणे दैवात्
कश्चन काकः उत्पतन् तत्र तालाभ्याम् आक्रान्तः अभवत् । तदेतत् काकतालीयमुच्यते । (नीलकण्ठीयटीका-
महाभारतशान्तिपर्व १२-१७-११)
लौकिकन्यायाञ्जलिः-
The maxim
of the crow and the Palmyra fruit. A crow alighted on a Palmyra tree, and at
the same moment some of the fruit fell on its head and killed it. The maxim is
therefore used to illustrate a startling and purely accidental occurrence. It
is well explained in the Kasikavritti on Panini 5.3.106. We find the saying in
Panchadasi ix. 12. [It is] in Anandavardhana's Dhvanyaloka, ii. 16, and in
Nyayavartikatatparyatika
No comments:
Post a Comment