लौकिकन्यायाः
कूपयन्त्रघटीन्यायः
विकी-
कूपात्
जलम् उद्धर्तुम् उपयुज्यमानं कूपयन्त्रं घटीभिः सहितं भवति । यदा चक्रं भ्रमति तदा
एका घटी जलेन पूर्णा भूत्वा उपरि आगच्छति अपरा च घटी जले मग्ना भवति । पुनः घटी रिक्ता
भूत्वा पुनः जले मग्ना भवति । अनया रीत्या अधस्तनाः घटाः उपरि आगच्छन्ति उपरितनाश्च
अधोगच्छन्ति । तथैव अस्माकं जीवने कानिचन दिनानि अनुकूलानि भवन्ति कानिचन च प्रतिकूलानि
। एवं जीवनस्य रीतिं कथयितुम् अस्य न्यायस्य प्रयोगः क्रियते । यथा - 🌹
कांश्चित्तुच्छयति
प्रपूरयति वा कांश्चिन्नयत्युन्नतिं
कांश्चित्पातविधौ
करोति च पुनः कांश्चिन्नयत्याकुलान् ।
अन्योन्यं
प्रतिपक्षसन्ततिमिमां लोकस्थितिं बोधयन्
क्रीडति
कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ मृच्छकटिके १०-५९🌼
लौकिकन्यायाञ्जलिः
The
maxim of the pots attached to the water-wheel of a well. As the wheel revolves,
some of the pots are going up and others are going down; some are full whilst
others are empty; and so it is applied to illustrate the changes and chances of
this mortal life. This is well put in Mrichchhakatika x. 60.
No comments:
Post a Comment