Monday 18 July 2016

कूर्माङ्ग-न्यायः



लौकिकन्यायाः
कूर्माङ्ग-न्यायः
            कूर्मः आवश्यकतानुसारं स्वानि अङ्गानि सङ्कोचयति । अयम् एकः स्वरक्षणोपायः । सामान्यतः कूर्मस्य अङ्गानि बहिः द्र्ष्टुं शक्यन्ते । संकुचितानि च तानि अङ्गानि बहिः न दृश्यन्ते । सर्वेषां पदार्थानां मूलद्रव्यं किमपि भवति तदेव कालान्तरे कार्यद्रव्यरुपेण परिवर्तते । तदा कारणात् कार्यम् उत्पन्नम् इति जनाः भावयन्ति । यदा एकः पदार्थः नष्टः भवति तदा कार्यरूपेण वर्तमानः सः पदार्थः कारणरुपेणा अवस्थितं भवति । वस्तुतः कस्यापि आत्यन्तिकः नाशो न भवति । तथैव कदापि यद् वस्तु विद्यमानमेव नास्ति तत् कथमपि न उत्पद्यते ।
        यथा- १. वाचस्पतिमिश्रः सांख्यतत्त्वकौमुदी -९-१८ २. मुण्डकोपनिषद् -३,३. भगवद्गीता -२-६८ (स्थितप्रज्ञस्य लक्षणेषु)
                        यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
                        इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता २-५८
            यः मनुष्यः स्वस्य चक्षुरादीनि इन्द्रियाणि रुपादिविषयेभ्यः आत्मनि प्रत्याहरति तस्य बुद्धिः स्थिरा भवतीति बोधयितुम्।

लौकिकन्यायाञ्जलिः
            The maxim of the limbs of the tortoise. Its meaning and application will be apparent from the following passage taken from the Sankhya section of Sarvadarsanasangraha: [...] "As the limbs of a tortoise, when they retire within its shell, are concealed, and, when they come forth, are revealed, so the particular effects, as cloth &c., of a cause, as threads &c., when they come forth and are revealed, are said to be produced; and when they retire and are concealed, they are said to be destroyed ; but there is no such thing as the production of the non-existent, or the destruction of the existent." Very similar language is used by Vachaspati Mis'ra, too, in his Sankhyatattvakaumudi 9 and 15. See also, Kshurika-Upanishad 3. and Gita ii. 58.

No comments:

Post a Comment