Thursday, 7 July 2016

काकदन्त-गवेषण-न्यायः



लौकिकन्यायाः

काकदन्त-गवेषण-न्यायः

विकी-
            काकस्य दन्ताः कति इति गणना व्यर्था एव खलु । तादृशस्य व्यर्थकार्यस्य विषये अस्य प्रयोगः भवति । यथा-  नचिकेता मरणसंबन्धं प्रश्नं प्रेत्यास्तीति नास्तीति । काकदन्तपरीक्षारुपं मानुप्राक्षीः मैवं वक्तुमर्हसि । कठोपनिषदः शाङ्करभाष्ये १-२५ १. तथा- ध्वन्यालोकस्य अभिनवगुप्तव्याख्याने ३-१९ पञ्चपादिकायां पृष्टक्रमः ५३,६८ जयन्तकृतन्यायमञ्जर्याम् पृष्ठक्रमः ७ । अयमेव वायसदन्तन्याय इत्यपि कथ्यते ।

लौकिकन्यायाञ्जलिः-
            The maxim of the examination of a crow's teeth. Used of any useless and manifestly fruitless enquiry. It occurs in the Buddhist treatise Nyayabindutika. Also in Shankara's bhashya on Katha- Upanishad i. 25

Wednesday, 6 July 2016

काकतालीयन्यायः



लौकिकन्यायाः

काकतालीयन्यायः

विकी-
            यदा काचिद् घटना अनपेक्षितरीत्या घटते (जायते) तदा तस्याः सूचनार्थम् अस्य न्यायस्य प्रयोगः क्रियते । काकः उपविष्टः तालफलं च पतितम् इति एकस्मिन् काले अनपेक्षितरीत्या जातं चेत् तयोः कारण-कार्य संबन्धः न भवति । आप्टेमहाशयस्य कोशे अस्य न्यायस्य पञ्च विवरणानि दत्तानि यथा   तालवृक्षस्य अधः काकः उपविष्टः अकस्मात् तस्य शिरसि तालफलं पतितम् इति यादृच्छिकं घटनाद्वयम् । काकः तालवृक्षस्य शाखाग्रे उपविशति । तदा शाखाग्रेण सह सः वृक्षः पतितः चेत् काकस्य भारेण एव वृक्षः पतितः इति कथनं सर्वथा अयोग्यम् एव । तालपतनं काकस्य उपवेशनम् इति द्वयमपि यादृच्छिकमेव । काकस्य उपवेशनं तालपतनमिति घटनाद्वयं एकस्मिन् समये वेगेन अलक्षितक्रमेण जातम् । काकः यदा तालवृक्षस्य समीपं गतः तदैव तालफलं तदुपरि पतितम् तेन काकः प्रहारं प्राप्तवान् । कश्चन मनुजः वेगेन करतल- ताडनं कुर्वन् अस्ति तदा कश्चन काकः तस्य हस्तयोर्मध्ये गतः प्रहारं प्राप्तवान्-इति सूच्यते । उदाहरणार्थं तालः नाम करतलयोः शब्दजनकः संयोगः । तस्मिन् क्रियमाणे दैवात् कश्चन काकः उत्पतन् तत्र तालाभ्याम् आक्रान्तः अभवत् । तदेतत् काकतालीयमुच्यते । (नीलकण्ठीयटीका- महाभारतशान्तिपर्व १२-१७-११)

लौकिकन्यायाञ्जलिः-
            The maxim of the crow and the Palmyra fruit. A crow alighted on a Palmyra tree, and at the same moment some of the fruit fell on its head and killed it. The maxim is therefore used to illustrate a startling and purely accidental occurrence. It is well explained in the Kasikavritti on Panini 5.3.106. We find the saying in Panchadasi ix. 12. [It is] in Anandavardhana's Dhvanyaloka, ii. 16, and in Nyayavartikatatparyatika

Friday, 1 July 2016

कफोणिगुडन्यायः



लौकिकन्यायाः
कफोणिगुडन्यायः
विकी-
            कफोणिभागे गुडं स्थापयित्वा तत् लेढि इति कथ्यते चेत् तत् तु अशक्यमेव । २. कफोणिभागे गुडं नास्ति चेदपि तद् अस्तीति मत्वा तस्य लेहनं इति इदम् अर्थद्वयं अनेन न्यायेन बोध्यते ।

लौकिकन्यायाञ्जलिः-
            The maxim of treacle (jaggery) on the elbow. Used of something tantalizingly inaccessible. It is found in Udayana's Atmatattvaviveka. In the Vachaspatyam, however, the nyaya is explained as meaning the absence of a thing, not its inaccessibility. The St. Petersburg Lexicon renders it "like a ball on the elbow."