लौकिकन्यायः-12
अरुन्धतीन्यायः
विकी-
अरुन्धती-नक्षत्रदर्शनेन
सह अस्य न्यायस्य संबन्धः विद्यते । विवाहस्य समये वधूवराभ्यां वसिष्ठतारादर्शनं
कारयन्ति । तत्पूर्वम् अरुन्धती- नक्षत्रस्य दर्शनं कारयन्ति (वसिष्ठः अरुन्धती च
दम्पती) लौकिकदम्पतीभ्याम् अलौकिकदम्पत्योः दर्शनम् एवं कार्यते । उपदेशसमये
अन्तिमलक्ष्यस्य अवान्तरलक्ष्याणाम् अपि उपदेशः क्रियते इति न्यायेन क्रमशः उपदेशः
भवतीति अर्थः व्यज्यते । अरुन्धती-नक्षत्रस्य दर्शनसमये अपि अन्यस्य नक्षत्रस्य
दर्शनं पूर्व कार्यते । द्रष्टव्यम्-- यथा अरुन्धतीं दिदर्शयिषुः तत्समीपस्थां
स्थूलां ताराम् अमुख्यां प्रथमम् अरुन्धती इति ग्राहयित्वा तां प्रत्याख्याय
पश्चाद् अरुन्धतीम् एव ग्राहयति तद्वत् ब्राह्मणम् आत्मेति भूयात् ।
लौकिकन्यायाञ्जलिः-
The
maxim of the pointing out of the star Arundhati. The idea here is that of
gradual instruction, on the principle of the अध्यारोपापवादन्याय। Its
usage is explained by S'ankara in Brahmasutra-bhashya 1.1.8,
यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां
प्रथममरुन्धतीति ग्राहयित्वा तां प्रत्याख्याय पश्चादरुन्धतीमेव ग्राहयति
तद्वन्नायमात्मेति ब्रूयात् । Similarly, too, in 1.1.12,
we read: यथारुन्धतीनिदर्शने बर्ह्वीष्वपि
तारास्वमुख्यास्वरुन्धतीषु दर्शितासु यान्त्या प्रदर्श्यते सा मुख्यैवारुन्धती
भवति, एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम् ।
The maxim is sometimes styled स्थूलारुन्धतीन्यायः।
No comments:
Post a Comment