Friday 10 June 2016

अन्धक-वर्तकीय-न्यायः



लौककन्यायः-8
अन्धक-वर्तकीय-न्यायः
विकी-
एकदा एकः अन्धः हस्तस्य उपरि हस्तं स्थापयित्वा उपविष्टः। तदा दैवात् नर्तिकानामकः कश्चन पक्षी आगत्य तस्य हस्ते पतितः । तस्य प्रयत्नं कल्पनां च विना सः पक्षी तस्य हस्तगतः अभवत् । एतादृशं सामान्यतः न सिद्ध्यति । तथैव मानवं जन्म, श्रेष्ठं कुलं, सज्जनानां सङ्गतिः इत्येतत् दैववशात् एव भवति । अस्मिन् अर्थे संस्कृते सुभाषितम् एकं विद्यते - 
संसारसागरमिमं भ्रमता नितान्तं जीवेन मानवभवः समवापि दैवात् ।
तत्रापि यद् भुवनमान्यकुले प्रसूतिः सत्सङ्गतिश्च तदिहान्धकवर्तकीयम् ॥

लौकिकन्यायाञ्जलिः-
The maxim, of the blind man and the quail. Like अजाकृपाणीय and many others, it is used to express a wholly fortuitous occurrence. Vardhamana, on Ganaratnamahodadhi iii. 195, explains it thus: "अन्धकश्च वर्तका च अन्धकवर्तकम्। अन्धकस्य वर्तकाया उपर्यतर्कितः पादन्यास उच्यते। तत्तुल्यमन्धकवर्तकीयम्। This authority brings the quail under the blind man's foot.

No comments:

Post a Comment