Friday 10 June 2016

अजाकृपाणीयन्यायः



लौकिकन्यायः-3
अजाकृपाणीयन्यायः
विकी-
            अजायाः कृपाणस्य च अचिन्तितः अपि संबन्धः जातः चेत् अजा मृता भवति एव । यदा काचिद् घटना अनपेक्षितरीत्या घटते तदा तस्याः निर्देशं कर्तुम् अयं न्यायः उपयुक्तः भवति । अकस्मात्, सहसा जायमानानां घटनानां कृते अस्य उपयोगः । अयम् एव अर्थः काकतालीयन्यायेन खल्वाटबिल्वीयन्यायेन च बोध्यते । अन्यस्मिन् न्याये इष्टलाभः अनिष्टलाभः वा सूच्यते परन्तु अनेन न्यायेन अनिष्टप्राप्तेः एव सूचना भवति। 

लौकिकन्यायाञ्जलिः-
            The maxim of the she-goat and the sword. It is founded on some story of a goat's being suddenly killed by accidental contact with a sword, and is used to illustrate any surprising event happening altogether by chance. It therefore belongs to the same class as काकतालीय, खल्वाटबिल्वीय and others of a similar kind.

No comments:

Post a Comment