Friday 10 June 2016

अर्ध-जरतीय-न्यायः



लौकिकन्यायः-13
अर्ध-जरतीय-न्यायः

विकी-
अर्धवृद्धायाः महिलायाः दृष्टान्तेन अयं न्यायः प्रवर्तते । वृद्धा कीदृशी वा भवतु तस्याः पतिः तां तस्याः संपूर्णशरीरेणा सह स्वकीयां मन्यते । तस्याः मुखपर्यन्तम् एव स्वकीयमिति इतरत् शरीरं स्वीयं नास्तीति सः न तिरस्करोति । केषाञ्चन अङ्गानां स्वस्य अनुकूलतायाः अनुसारेण स्वीकरणम् अन्येषां निराकरणमितिम् न शक्यते । कोऽपि विषयः पूर्णतया त्यक्तव्यः किंवा पूर्णरुपेण स्वीकर्तव्यः । आगमप्रमाणेन ईश्वरस्य सिद्धिः भवति परन्तु बुद्धस्य वचनेन तस्य सिद्धिः न भवति इति उभयमपि स्वीकर्तुं न शक्यते । किमपि एकमेव मतं स्वीकरणीयं भवति । (सा. २५५) द्रष्टव्यम्- विकारार्थे मयटप्रवाहे सति आनन्दस्य एवाकस्माद् अर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं वा आश्रीयत इति । (ब्रह्मसूत्रशाङ्करभाष्यम् १-१-१९,१-२-८)

लौकिकन्यायाञ्जलिः-
The maxim of the semi-senile woman. It is very difficult to fix on the exact force of this saying. It seems to imply indefiniteness, half-and-half-ness, the being neither one thing nor the other.

No comments:

Post a Comment