Friday 10 June 2016

अन्तर्दीपिकान्यायः



लौकिकन्यायः-7
अन्तर्दीपिकान्यायः
विकी-
गृहे स्थापितस्य दीपस्य अल्पोऽपि वा प्रकाशः सर्वत्र भवति । एकस्मिन् प्रदेशे वर्तमानस्य जनस्य वस्तुनः वा कारणेन बहूनि कार्याणि भवन्ति चेत् तद् द्योतयितुम् अस्य न्यायस्य प्रयोगः भवति । अस्यैव नामान्तरं देहलीदीपन्यायः इति उच्यते । यथा- "सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन बह्मचर्येण नित्यम्" इति मुण्डकोपनिषदि वर्तमानस्य मन्त्रस्य शाङ्करभाष्ये नित्यं सदा, नित्यं तपसा नित्यं सम्यग्ज्ञानेनइति रीत्या नित्यशब्दस्य अन्तर्दीपिकान्यायेन त्रिभिरपि अर्थैः सह संबन्धः दर्शितः।

लौकिकन्यायाञ्जलिः-
The maxim of a lamp in a central position. Applied to something which fulfills a double purpose. The maxim of a lamp in a central position. Applied to something which fulfills a double purpose.

No comments:

Post a Comment