लौकिकन्यायः-17
एकवृन्तगत-फलद्वय-न्यायः
विकी-
एकस्मिन्
वृन्ते एव फलद्वयं भवति इति न्यायः । कस्मिन्नपि वृन्ते फलद्वयमस्ति चेत् वृन्तस्य
त्रोटनेन फलद्वयं लभ्यते अन्यथा एकम् एव फलं लभ्येत । एकेनैव प्रयत्नेन कार्यद्वयस्य
सिद्धिः अनेन न्यायेन सूच्यते । एकेनैव शिलाखण्डेन पक्षिद्वयं मारितम् इति मराठीभाषायां
कश्चन वाक्प्रचारः वर्तते । यदा एकस्य शब्दस्य अर्थद्वयम् एकत्र एव अन्वितं भवति तदा
कश्चन विशिष्टः श्लेषालङ्कारः भवति । श्लेषालङ्कारे एकस्मात् पदात् अर्थद्वयं किंवा
अधिकाः अर्थाः गृहीताः भवन्ति । श्लेषालङ्कारस्य विवेचनसमये जगन्नाथपण्डितेन अस्य न्यायस्य
उल्लेखः कृतः । पश्यन्तु -इह हि सभंगश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठन्यायेन अभंगस्य
च अर्थद्वयवृत्तित्वम् एकवृन्तगतफलद्वयवच्च स्फुटमेव ॥
लौकिकन्यायाञ्जलिः-
The
maxim of two fruits attached to one stalk. Used by writers on Alankara to
illustrate a particular kind of Paronomasia, namely the coalescence of two
meanings under one word. It is in use in the Alankarasarvasva, Kavyapradipa,
Sahityadarpana, Rasagangadhara, Alankarakaustubha, and Sahitya-kaumudi, in each
case under the figure श्लेष. The maxim finds a place in
Marathi literature also, and is regarded as equivalent to the proverb "Killing
two birds with one stone."
No comments:
Post a Comment