लौकिकन्यायः-16
उष्ट्र-कण्टक-भक्षण-न्यायः
उष्ट्रः
कण्टकितस्य वृक्षस्य पत्राणि खादति । कण्टकानां चिन्ताम् अकृत्वा पत्राणि यदा खादति
तदा तस्य महान् आनन्दः भवति । यथार्थतः किमपि वस्तु स्वभावेन आनन्ददायकं दुःखदायकं
वा न भवति। उष्ट्रः कण्टकान् खादति इति कण्टकभक्षणं सर्वेभ्यः रोचते इति तु न भवति
। स्वभाव एव अत्र प्रमुखविषय इति तु सत्यम् । यथा-
कर्णामृतं
सूक्तिरसं विमुच्य दोषेषु यत्नः सुमहान् खलस्य ।
अवेक्षते
केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव ॥(विक्रम- १-२९)
उपवनं
गतः अपि उष्ट्रः प्रमादवशात् अपि तत्रस्थान् सुन्दरान् वृक्षान् न पश्यति । स्वभावकारणेन
सः कण्टकितान् वृक्षान् अन्विष्य तान् एव खादेत् । समाजे दोषाणां दर्शने एव दुष्टानां
महान् आनन्दः। ते गुणान् द्रष्टुं न शक्नुवन्ति दोषान् एव पश्यन्ति इति अनेन न्यायेन
सूच्यते ।
लौकिकन्यायाञ्जलिः-
The
maxim of a camel's eating thorns.
Vacaspatimis'ra, explains the same passage in the Bhamati, (pp. 380-1), pointing out that things are not in themselves
essentially pleasant or unpleasant, and that what causes pleasure to one may be
painful to another, and that even the same thing which at one time is agreeable
may at another time be the reverse. Otherwise thorns would be as acceptable to
men as they are to a camel.
No comments:
Post a Comment