Friday 10 June 2016

अध्यारोपापवादन्यायः



लौकिकन्यायः-6
अध्यारोपापवादन्यायः
विकी-
            अध्यारोपः नाम एकस्मिन् वस्तुनि अन्यस्य वस्तुनः आरोपणम् । यदा तत् आरोपणं दूरीभूय वस्तुनः यथार्थज्ञानं भवति तदा तं वेदान्ते अपवादं भणन्ति । यथार्थज्ञानेन भ्रमः अपगच्छति । ब्रह्मपदस्य विवेचनसमये वेदान्ते अस्य न्यायस्य उपयोगः क्रियते - यथा -वस्तुन्यवस्त्वारोपः अध्यारोपः । यथा असर्पभूतायां रज्जौ सर्पारोपः । अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववद् वस्तुविवर्तस्य अवस्तुनः अज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम् इति । ताभ्याम् अध्यारोपापवादाभ्यां निष्प्रपञ्चं सच्चिदानन्दानन्ताद्वयं ब्रह्म प्रपञ्च्यते विस्तीर्यते इति भावः । तथैव सर्परज्जुन्यायः ।

लौकिकन्यायाञ्जलिः-
    The method of illusory attribution followed by its withdrawal. This nyaya belongs entirely to the Vedantists.

No comments:

Post a Comment